________________
.. योगशास्त्रे
विजयश्री: क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधागोतवोभयोरपि भीमयोः ॥ ३४ ॥ असौ मशक इत्यस्थाद्यावहन वचभित् । तावत्सर्वोजसा मेघनादस्तं समुपाद्रवत् ॥ ३५ ॥ पातयित्वा झगित्येव तं बबन्ध दशास्यसूः । जिगीषूणां जये हेतुः प्रथमो ह्याशुकारिता ॥ ३६ ॥ मेघनादः सिंहनादैर्नादयन् रोदसौ अपि । पितुः समर्पयामास मूत्तं जयमिवाथ तम् ॥ ३७॥ प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत्। . हयं विधत्ते हि बली निहन्त्यपि वहत्यपि ॥ ३८ ॥ सोमो दण्डधरः पाशौ कुबेरश्च समेत्य ते । दशास्यमिन्द्रग्रहणात्क्रुद्धा रुरुधिरे ततः ॥ ३८ ॥ जितकाशी दशास्योऽपि भूत्वोत्साहाच्चतुर्गुण: । योधयामास संग्रामचतुरश्चतुरोऽपि तान् ॥ ४० ॥ सोऽभाझीद्दण्डिनो दण्डं चुक्षोद गदिनो गदाम् । पाशिनोऽत्रोटयत्याशान् धनुः सोमस्य चाच्छिदत् ॥ ४१ ॥ अपातयत्प्रहारैस्तान्महेभ: कलभानिव । अग्रहीद्रावणो बड्वा वैरिविद्रावण: क्षणात् ॥ ४२ ॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललझां लङ्गेशो विजेतुमगमत्ततः ॥ ४३ ॥
(१) क -वं। (२) च -प्रतः।