________________
द्वितीयः प्रकाशः !
हत्वा चन्द्रोदरं तत्र 'तद्राज्यं स्वां च सोदरीम् । 'सोऽदात्खराय त्रिशिरोदूषणज्यायसे ततः ॥ ४४ ॥ चन्द्रोदरस्य निःशेषं खरः खरबलोऽग्रहीत् । एका तु गुर्विणी राज्ञी प्रणश्य क्वचिदप्यगात् ॥ ४५ ॥ ततः पाताललङ्कातो लङ्कां लङ्कापतिर्ययौ । तत्र निष्कण्टकं राज्यं चक्रे विष्टपकण्टकः ॥ ४६ ॥ सोऽन्येद्युः पुष्पकारूढक्रीडयेतस्ततो भ्रमन् । मरुत्तभूपप्रारब्धमोक्षाञ्चक्रे महामखम् ॥ ४७ ॥ ततो विमानादुत्तीर्णौ दशास्यस्तद्दिदृक्षया । आनर्चे भूभुजा तेन पाद्यसिंहासनादिना ॥ ४८ ॥ ततो मरुत्तभूपालं जगादैवं दशाननः । अरे किमेष क्रियते नरकाभिमुखैर्मखः ॥ ४८ ॥ धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञैस्त्रिजगद्दितैः । पशुहिंसात्मकाद्यज्ञात्स कथं नाम जायते ॥ ५० ॥ लोकद्दयारिं तद्यज्ञं मा कार्षीश्चेत्करिष्यसि । महुप्ताविह ते वासः परत्र नरके पुनः ॥ ५१ ॥ विससर्ज मखं सद्यो मरुत्तनृपतिस्ततः । अलङ्घया रावणाज्ञा हि विश्वस्यापि भयङ्करा ॥ ५२ ॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः ।
ततोऽगाञ्चैत्ययात्रार्थं सुमेर्वष्टापदादिषु ॥ ५३ ॥
(१) खच राज्यं स्वां च सहोदरीम् ।
३६५