________________
योगशास्त्रे विधाय यात्रा चैत्येषु कृत्रिमावनिमेषु सः । आजगाम निजं धाम पुनरेव दशाननः ॥ ५४ ॥ इतश्चासीदयोध्यायां पुयामेकमहारथः । राजा दशरथो नाम धाम निःसीमसम्पदाम् ॥ ५५ ॥ पत्नाः कौशल्याकैकेयीसुमित्रासुप्रभाभिधाः । प्रियाश्चतस्रस्तस्यासन्मूर्त्ता इव दिशां श्रियः ॥ ५६ ॥ कौशल्या सुषुवे राम कैकेयो भरतं सुतम् । .. सुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाऽभिधा ॥ ५७ ॥ रामलक्ष्मणभरतशत्रुघ्नास्तस्य रेजिरे। चत्वारः सूनवो दन्ता इव त्रिदशदन्तिनः ॥ ५८ ॥ जनकस्य सुतां सौता भामण्डल सहोदरीम् । कार्मुकारोपण पणां रामभद्र उपायत ॥ ५८ ॥ जिनेन्द्रबिम्बमपनजल मङ्गलहेतवे । चतसृणां च राजीनां नृपः प्रेषयदन्यदा ॥ ६ ॥ तत्तोयमागतं पश्चादिति रोषमुपयुषीम् । अनुनेतुं स्वयं रानी सुमित्रामगमनृपः ॥ ६१ ॥ घण्टान्तालिकालोलदशनं चलिताननम् । खेतसर्वाङ्गरोमाणं भूरोमच्छन्नलोचनम् ॥ ६२ ॥ पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः ॥ ६३ ॥ .
(१) ख च ड -महोदराम् ।