________________
द्वितीयः प्रकाशः |
तं दृष्ट्वाऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥ ६४ ॥ व्रतं जिष्टक्षुः स ततो राज्ये स्थापयितुं निजे | अह्नायाह्वाययामास तनयौ रामलक्ष्मणौ ॥ ६५ ॥ भरतस्य जनन्याऽथ कैकेय्या मन्थरा गिरा ।
३६७
वरौ प्राक्प्रतिपन्नौ स याचितः सत्यसङ्गरः ॥ ६६ ॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्नस्थिरो राज्यं भरताय समार्पयत् ॥ ६७ ॥ चतुर्द्दशसमा यावद्दनवासाय चादिशत् । ससीतालक्ष्मणं रामं वरेणान्येन चार्थितः ॥ ६८ ॥ ससीतालक्ष्मणो रामः सद्योऽगा'द्दण्डकावनम् । पञ्चवट्याश्रमे चावतस्थेऽसौ सत्यसङ्गरः ॥ ६८ ॥ तत्रायातौ चारणर्षी राघवाभ्यां नमस्कृतौ । सीताऽऽनर्चातिथोभूतौ श्रद्धालुः शुद्धभिक्षया ॥ ७० ॥ ततो गन्धोदकैर्वृष्टिरमरैर्विदधे तदा ।
गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ॥ ७१ ॥ तौ मुनी देशनां तत्र चक्रतुः स 'व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ॥ ७२ ॥
तस्थुषस्तत्र रामस्य फलाद्यर्थं बहिर्गतः । ददर्श लक्ष्मणः खड्गमग्रहोच्च कुतूहलात् ॥ ७३ ॥
(१) ख च ड - दण्डिका ।
(2)
ख च व्यबुद्धप्रत |