________________
३६८
योगशास्त्रे
तत्तीक्ष्णत्वपरीक्षार्थं तत्क्षणं तेन लक्ष्मणः । अभ्यर्णस्थां वंशजालौं नललावं लुलाव च ॥ ७४ ॥ वंशजालान्तरस्थस्य कृत्तं कस्यापि देहिनः । यैकं मौलिकमलं सोऽपश्यत्पतितं पुरः ॥ ७५ ॥ अयुध्यमानोऽशस्त्रश्व पुमान् कोऽपि हतो मया । अमुना कर्मणा धिग्मामित्यात्मानं निनिन्द सः ॥ ७६ ॥ गत्वा च रामभद्राय तदशेषमचौकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ॥ ७७ ॥ असावसि: सूर्य हासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं कश्चिदुत्तरसाधकः ॥ ७८ ॥ अत्रान्तरे दशग्रीवखसा चन्द्रणखाऽभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम् ॥ ७८ ॥ क्कासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ । अपश्यल्लक्ष्मणस्यांह्रिन्यासपङ्क्तिं मनोहराम् ॥ ८० ॥ मम सूनुर्हतोऽनेन यस्येयं पदपद्धतिः । पदपङ्क्तिपथेनैव ततश्चन्द्रणखाऽऽययौ ॥ ८१ ॥ यावत्किञ्चिदगात्तावत्ससौतालक्ष्मणं पुरः ।
नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ॥ ८२ ॥ निरीक्ष्य रामं सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेऽपि कोऽप्यहो ॥ ८३ ॥ स्वं रूपं चारु कृत्वाऽथ रन्तुं रामस्तयाऽर्थितः । हृसन्नूचे सभार्योऽहमभार्यं भज लक्ष्मणम् ॥ ८४ ॥