________________
समताः ।
द्वितीयः प्रकाशः । तयाऽर्थितस्तथैवैत्य लक्ष्मणोऽप्येवमब्रवीत् । आर्य गता त्वमार्येव तदलं वार्तयाऽनया ॥ ८५ ॥ सा याजाखण्डनात्पुत्रवधाच्च रुषिताऽधिकम् । आख्यहत्वा खरादीनां तत्कृतं तनयक्षयम् ॥ ८६ ॥ विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः । ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव दिपाः ॥ ८७ ॥ किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ॥ ८८ ॥ गच्छ वत्स ! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं ममाहूत्यै कुर्या इत्यन्वशात् स तम् ॥ ८ ॥ रामाज्ञां प्रतिपद्योच्चैलक्ष्मणोऽथ धनुःसखा । गत्वा प्रववृते हन्तुं स तांस्ताय॑ इवोरगान् ॥ ४० ॥ प्रवईमान तद्युद्धे स्वभर्तुः पार्णि वृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणवसा ॥ ८१ ॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतस्ते यामयं यमगोचरम् ॥ ८२ ॥ श्रुत्वा स्वसृपतिस्ते तु सानुजः सबलो ययौ। तत्र सौमित्रिणा साई युद्धामानोऽस्ति संप्रति ॥ ८३ ॥ कनिष्ठचाटवौर्येण स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सौतया सह ॥ ८४ ॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव काऽपि सा ॥ ८५ ॥
४७