________________
२७०
___ योगशास्त्रे तच्छुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथ जगनाथ कथं मे नरके गतिः ॥ ८८ ॥ बभाष भगवानेवं पुरा त्वमसि भूपते। बदायुनरके तेन तत्रावश्यं गमिष्यसि ॥ ८८ ॥ शुभानामशभानां वा फलं प्राग् बहकर्मणाम् । भोक्तव्यं तद् इयमपि नान्यथा कर्तुमीश्महे ॥ ८ ॥ आद्यों भाविजिनचतुर्विशती त्वं भविष्यसि । पद्मनाभाभिधो राजन् खेदं मा स्म कथास्ततः ॥ ८१ ॥ श्रेणिकोऽथावदनाथ किमुपायोऽस्ति कोऽपि सः । नरकायेन रक्ष्येऽहमन्धकूपादिवान्धल: ॥ २ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेकपिलया भिक्षां दापयसे मुदा ॥८३ ॥ कालसौकरिकात्सूनां विमोचयसि वा यदि। तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥ ८४ ॥ सम्यगित्युपदेशं स हृदि हारमिवोहहन् । प्रणम्य श्रीमहावीरं चचाल खाश्रयं प्रति ॥ ८५ ॥ अत्रान्तरे परीक्षार्थ दर्दुराङ्केन भूपतः । अकार्य विदधत्साधुः कैवर्त इव दर्शितः ॥ ६६ ॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्य्यत: साम्रा स्वगृहं प्रत्यगानृपः ॥ ८७ ॥ स देवो दर्शयामास साध्वीमुदरिणी पुनः। नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ ८८ ॥