________________
हितीयः प्रकाशः। प्रत्यक्षोभूय देवोऽपि तमूचे साधु साधु भोः। सम्यत्वाञ्चाल्यसे नेव पर्वत: स्वपदादिव ॥ ८ ॥ नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाम् ॥ १० ॥ दिवानिर्मितनक्षत्र श्रेणिकं श्रेणिकाय सः । व्यवाणयत्ततो हारं गोलकहितयं तथा ॥ १ ॥ योऽमुं सन्धास्वते हारं त्रुटितं स मरिष्यति।। इत्युदोर्य तिरोधत्त स्वप्नदृष्ट इवामरः ॥ २ ॥ दिव्यं देव्यै ददौ हारं चेल्लणायै मनोहरम् ।। गोलकहितयं तत्तु नन्दायै नृपतिर्मदा ॥ ३ ॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तम्भे तहोलकइयम् ॥ ४ ॥ एकस्मात्कुण्डलइन्हं चन्द्रहन्हमिवामलम् । देदीप्यमानमन्यस्मात्क्षौमयुग्मं च निःसृतम् ॥ ५ ॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रष्टिवल्लाभो महतां स्यादचिन्तितः ॥ ६ ॥ राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता। भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चकैः ॥ ७ ॥ कपिलीचे विधमे मां सवीं स्वर्णमयीं यदि । हिनस्मि वा तथाऽप्येतदक्कत्यं न करोम्यहम् ॥ ८॥
(१) च श्रेणिकं च सः। .........