________________
२७२
योगशास्त्रे
कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्चयन् । दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ॥ ८ ॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामौति कालसौकरिकोऽवदत् ॥ १० ॥ सूनाव्यापारमेषोऽत्र करिष्थति कथं न्विति। नृपः क्षिप्वाऽन्धङ्कप तमहोरात्रमधारयत् ॥ ११ ॥ अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥ १२ ॥ सर्वज्ञोऽभिदधे राजबन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान् ॥ १३ ॥ तहत्वा श्रेणिकोऽपश्यत् स्वयमुद्दिविजे ततः । धिगहो मे पुरा कर्म नान्यथा भगवहिरः ॥ १४ ॥ पञ्च पञ्च शतान्यस्य महिषाविघ्नतोऽन्वहम् । कालसौकरिकस्योच्चै: पापराशिरवईत ॥ १५ ॥ इहापि रोगास्तस्यासन्दारुणरतिदारुणाः । पर्यन्तनरकप्राप्ते रुपयुत्कलितैरघेः ॥ १६ ॥ हा तात हा मातरिति व्याधिबाधाकदर्थितः।। वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ॥ १७ ॥ सोऽङ्गनातूलिकापुष्पवीणाक्कणितमार्जिताः । दृष्टित्वग्नासिकाकर्णजिह्वाशूलान्यमन्यत ॥ १८ ॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाभरायाभयदायिने ॥ १८ ॥