________________
द्वितीयः प्रकाशः ।
२७३ जचेऽभयस्त्वत्यिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ॥ २० ॥ तथाऽप्यस्य कुरु प्रोत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन्न जलमौषधम् ॥ २१ ॥ अथैत्य सुलसस्तं तु कटुतितान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्त न पुसहोदराः ॥ २२ ॥ भूयिष्ठविष्ठया सुष्ठु सर्वाङ्गीणं व्य लेपयत् । जईकण्टकमय्यां च शय्यायां पर्यसूषुपत् ॥ २३ ॥ श्रावयामास चक्रीवत्क्रमेलकरवान् कटून् । रक्षोवेतालकशालघोररूपाण्यदर्शयत् ॥ २४ ॥ तैः प्रौतः सोऽब्रवीत्युत्त्रं चिरात्स्वाइद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥ २५ ॥ शब्दः श्रुतिसुधाऽमूनि रूपाण्येकं सुखं दृशोः । . भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥२६॥ तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ॥ २७ ॥ सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥ २८ ॥ कतो देहिकोऽभाणि सुलस: स्वजनैरिति । पितुः श्रय पदं स्याम सनाथा हि त्वया यथा ॥ २८ ॥ सुलसस्तानुवाचेदं करिष्ये कर्म नह्यदः । किञ्चिन्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ॥ ३० ॥
३५