________________
२७४
योगशास्त्रे
यथा मम प्रिया प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥ ३१ ॥ हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणकफलं ज्ञात्वा किंपाकफलमत्ति कः ॥ ३२॥ अथ ते स्वजना प्रोचुः पापं प्राणिवधेऽत्र यत्।। तविभज्य ग्रहीष्थामो हिरण्यमिव गोत्रिणः ॥ ३३ ॥ त्वमेकं महिषं हन्या हनिष्यामोऽपरान् वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥ ३४॥ आदाय सुलस: पित्रं कुठारं पाणिना ततः । तेनाजघ्ने निजां जवां मूर्छितो निपपात च ॥ ३५ ॥ लब्धसंज्ञस्ततोऽवादीत् 'साक्रन्द: करुणवरम् । हा कुठारप्रहारण कठोरेणास्मि पीडितः ॥ ३६॥ ग्टहीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन पीडितं पात पात माम् ॥ ३७॥ सुलसं खिनमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि ग्रहीतुं शक्यते किमु ॥ ३८ ॥ सुलसो व्याजहारदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ॥ ३८ ॥ कृत्वा पापं कुटुम्बार्थे धोरां नरकवेदनाम् । एकोऽमुत्र सहिष्थेऽहं स्थास्य त्यत्रैव बान्धवाः ॥ ४० ॥
(१) च स क्रन्दन् दारुणवरम् । ड स क्रन्दन क- ।