________________
२७५
द्वितीयः प्रकाशः । . २७५ हिंसां तन्त्र करिथामि पैत्रिकीमपि सर्वथा । पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ॥ ४१ म एवं याहरमाणस्य सुलसस्यातिपीडया । प्रतिजागरणायागादभयः श्रेणिकात्मजः ॥ ४२ ॥ परिरभ्य बभाष तमभयः साधु साधु भोः । सर्व ते श्रुतमस्माभिः प्रमोदायमागताः ॥ ४३ ॥ पापात्पित्रवादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाघ्यसे हन्त पक्षपातो गुणेषु नः । ४४ ॥ सुलसं पेशलैरेवमालापैर्धर्मवत्सलः । अनुमोद्य निजं धाम स जगाम नृपात्मजः । ४५ ॥ खाननादृत्य सुलसो ग्रहीतदादशव्रतः ।
दौर्गत्यभीतोऽस्थाज्जैनधर्मे रोर इवेश्वर ॥ ४६ ॥ कालसौकरिक सूनुरिवैवं यस्त्यजेत् कुलभवामपि हिंसाम् । खगसम्पददवीयसि तस्य श्रेयसामविषयो न हि किञ्चित्॥१४॥३०॥ अथ हिंसां कुर्वत्र पि दमादिभिः पुण्यमर्जयत्येव
पापं च विशोधयेदित्याहदमो देवगुरूपास्तिर्दानमध्ययनं तपः ।
सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥३१॥ दम इन्द्रियजयः, देवगुरूपास्तिर्देवमेवा गुरुसेवा च, दानं पात्रेषु द्रव्यविश्वाणनं, अध्ययनं धर्मशास्त्रादेः पठनं, तपः कच्छचान्द्रायणादि, एतहमादि सर्वमपि न तु किञ्चिदेव, अफलं