________________
द्वितीयः प्रकाशः।
२६८ म दध्यौ दर्दुरश्चैवं हारे संस्थाप्य मां पुरा। हास्थो यं वन्दितुमगात्म आगाभगवानिह ॥ ७७ ॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा नहि कस्यापि पैटको ॥ ७८ ॥ ततोऽस्महन्दनाहेतोरुत्नुत्योत्प्मुत्य सोऽध्वनि । पायांस्तेऽश्वखुरक्षुस्लो भेकः पञ्चत्वमाप्तवान् ॥ ७ ॥ दर्दुराकोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ॥ ८० ॥ इन्द्रः सदस्युवाचेदमुपवेणिकमाहताः । अश्रद्दधानस्तदसौ तत्परीक्षार्थमागतः ॥ ८१ ॥ गोशौर्षचन्दननायमानच चरणो मम। त्वदृष्टिमोहनायान्यमवं व्यधित वैक्रियम् ॥ ८२ ॥ अथोचे श्रेणिकः स्वामित्रमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्यामङ्गल्यानि जगाद किम् ॥ ८३ ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां नियस्वेत्युवाच सः ॥ ८४ ॥ स त्वां जगाद जौवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ॥ ८५ ॥ जीवन् धर्म विधत्ते स्थाहिमाने नुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ ८६ ॥ जीवन् पापपरी मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः ॥ ८७ ॥