________________
२६८
योगशास्त्रे
स गत्वा स्वगृहे ऽपश्यत्वपुत्रान् कुष्ठिनो मुदा। मयाऽवज्ञाफलं साधु दत्तमित्यवदन तान् ॥ ६६ ॥ सुतास्तमेवमूचुश्च भवता तात निघणम् ।। विश्वस्तेषु किमस्मासु विषेवेदमनुष्ठितम् ॥ ६७ ॥ लोकैराक्रुश्यमानोऽसौ राजनागत्य ते पुरम् । आथयज्जीविकाहारं हारपालं निराश्रयः ॥ ६८॥ तदाऽत्र वयमायाता हास्थोऽस्मदर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विप्रं निजकर्मणि ॥ ६८ ॥ द्वारोपविष्टः स हारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवामुक्त यथेष्टं कष्टितः क्षुधा ॥ ७० ॥ आकण्ठं परिभुक्तान्नदोषावीमोषणा च सः । उत्पन्नया Bषाऽकारि मरुपान्थ इवाकुल: ॥ ७१ ॥ तत्तु हाःस्थभिया स्थानं त्यक्त्वा नागात्पादिषु । असौ जलचरान् जीवान् धन्यान्मेने टषातुरः ॥ ७२ ॥ आरटन् वारि वारीति स दृषार्तो व्यपद्यत । इहैव नगरहारवाप्यामजनि दर्दुरः ॥ ७३ ॥ विहरतो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्महन्दनार्थं च प्रचचाल ससम्भमः ॥ ७४ ॥ अस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् ॥ ७५ ॥ उहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वमस्मरणवज्जातिम्मरणं तत्क्षणादभूत् ॥ ७६ ॥