________________
हितीयः प्रकाशः ।
३८७
तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाखैरप्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥ ६ ॥ सौता स्वर्णशलाकेव निर्मला शीलशालिनी। रामण जराहे लङ्काराज्ये न्यस्तो बिभीषणः ॥ ७७॥ शत्रु निहत्य ससहोदरदारमित्रो रामो ययावथ निजां नगरीमयोध्याम् । उत्पन्नया परकलत्ररिरंसयाऽपि कृत्वा कुलक्षयमगाबरकं दशास्यः ॥ २७८ ॥
शामा
॥ इति सीतारावणकथानकम् ॥ ८ ॥
तस्मात् ।
लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात्परस्त्रियम् ॥१०॥
दुस्त्यजामपि परस्त्रियं जयात्परिहरेत् । दुस्त्यजत्वे हेतूनाह । लावण्यपुण्यावयवां लावण्यं स्पृहणीयता रूपादिभ्योऽतिरिक्तं तेन पुण्याः पवित्रा अवयवा यस्यास्तां, पदं स्थानं सौन्दर्यसंपदो रूपसम्पदः, कला हासप्ततिलेखाद्याः स्त्रीजनोचिता: तासां कलाप: समूहस्तत्त्र कुशलां प्रवौणाम् । लावण्यं, रूपं, वैदग्धं च परदाराणां दुस्त्यजवे हेतुः । अपि शब्दस्त्रिष्वपि हेतुषु सम्बन्धनीयः ॥ १० ॥