________________
३८८
योगशास्त्रे
परस्त्रीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंसति
अकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ॥ १०१ ॥
परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रूमः कां स्तुतिं कुर्महे । वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणं सुदर्शनसमुन्नतेः शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शन प्रभावकस्येत्यर्थः ।
सुदर्शनश्च संप्रदाय गम्यः । स चायम्–
अस्त्यङ्गदेशेऽत्यलकापुरौ चम्पेति तत्र च । दधिवाहन इत्यासीद्राजाऽतिनरवाहनः ॥ १ ॥ अभूत्तस्याभया नाम कलाकौशलशालिनी । महादेवी खलावण्यावज्ञातत्रिदशाङ्गना ॥ २ ॥ इतो नगर्यां तस्यां च समग्रवणिगग्रणीः । श्रेष्ठौ वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि ॥ ३ ॥ यथार्थनामिका जैनधर्मोपासनकर्मणा । अर्हद्दासीति तस्यासीद् वल्लभा शोलशालिनी ॥ ४ ॥ श्रेष्ठिनस्तस्य महिषीरक्षोऽभूत्सुभगाभिधः । अनेषोन्महिषीर्नित्यं स तु चारयितुं वने ॥ ५ ॥ वनात्रिवृत्तः सोऽन्येद्युर्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ॥ ६ ॥