________________
द्वितीयः प्रकाशः ।
३८८
अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । प्रसौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥ ७॥ . महामुनिमवज्ञातहिमानीपातवेदनम् । तमेव चिन्तयन्नाद्रमना रात्रि निनाय स: ॥ ८ ॥ अविभातविभावयां गृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमास्थितः ॥ ८ ॥ कल्याणीभक्तिरानम्योपासाञ्चके स तं तदा। अहो नैसर्गिकः कोऽपि विवेकस्तादृशामपि ॥ १० ॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ॥ ११ ॥ म नमो अरिहन्ताणमिति वाचमुदीरयन् । हितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ॥ आकाशगामिनी नूनमियं विद्येति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥ १३ ॥ जाग्रत्स्वपनटस्तिष्ठन्दिवा निशि ग्राहे बहिः।। तदपाठौत् स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥ १४ ॥ ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्ट प्रभावभृत् । प्राप्त पञ्चपरमेष्ठिनमस्कारपदं कुतः ॥ १५ ॥ अशेषं महिषीपालः कथयामास तत्ततः । साधु भोः साधु भट्रेति शसन् श्रेष्ठी जगाद तम् ॥ १६ ॥ अाकाशगमने हेतुरसौ विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥ १७ ॥