________________
३००
योगशास्त्रे
यत्किञ्चित्सुन्दरं वस्तु दुष्यापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्य प्रभावतः ॥ १८ ॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिव ॥ १८ ॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैग्रहीतव्यं गुरुनाम न जातुचित् ॥ २० ॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्त: श्रेष्ठी हृष्टोऽब्रवीदिदम् ॥ २१ ॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्कियाम् । कल्याणानि यथा ते स्युः परलोकेहलोकयोः ॥ २२ ॥ ततोऽशेषनमस्कारं लब्धार्थमिव 'तडनः । परावर्त्तयताजस्रं सुभगः सुभगाशयः ॥ २३ ॥ महिषीपालकस्यास्य क्षुत्तृष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ॥ २४ ॥ एवं तस्य नमस्कारपाठव्यसनिन: सतः । कियत्यपि गते काले वर्षाकाल: समाययौ ॥ २५ ॥ धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकोलयदिव द्यावापृथिव्यौ नव्यवारिदः ॥ २६ ॥ ग्रहामृहीत्वा महिषी: सुभगोऽपि बहिर्गतः । विनिहत्तोऽन्तराऽपश्यहोरपूरां महानदीम् ॥ २७ ॥
(१) क
सबनम् ।