________________
३८१
हितीयः प्रकाश: । तां दृष्ट्वा स मनाग् भीतस्तस्थौ किञ्चिद्दिचिन्तयन् । नदी तीर्खा परक्षेत्रे महिष्यः प्राविशन्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमयानविद्याधिया ततः। उत्पपात कृतोत्फालो मध्येनदि पपात च ॥ २८ ॥ तत्रान्तःकर्दमं मग्नः खरः खदिरकोलकः । कतान्तदन्तसोदो हृद्यस्य प्रविवेश च ॥ ३० ॥ तथैवावर्तयन् पञ्चपरमेष्ठिनमस्कियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥ ३१ ॥ श्रेष्ठिपत्नयास्तत: सोऽहंहास्याः कुक्षाववातरत् । नमस्काररतानां हि सहतिन विसंवदेत् ॥ ३२ ॥ तस्मिन् गर्भस्थिते मासि तार्तीयौके व्यतीयुषि । श्रेष्ठिनी श्रेष्ठिने खस्य दोहदानित्यचौकथत् ॥ ३३ ॥ गन्धोदकैः सपयितुं विलेप्तुं च विलेपनेः।। अर्चितं कुसुमैरिच्छाम्यहतां प्रतियातनाः ॥ ३४ ॥ प्रतिलम्भयितुं साधूनिच्छाम्याच्छादनादिभिः । संघं पूजयितुं दातुं दौनेभ्यश्च मतिर्मम ॥ ३५ ॥ इत्यादिदोहदांस्तस्याः श्रुत्वा मुदितमानसः । . चिन्तामणिरिव श्रेष्ठिशिरोमणिरपूरयत् ॥ ३६ ॥ ततो नवसु मासेषु दिनेष्वाष्टमेषु च । गतेषु श्रेष्ठिनी पुत्रमसूत शुभलक्षणम् ॥ ३७ ॥ सद्यो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थ नाम निर्ममे ॥ ३८ ॥