________________
हितीयः प्रकाशः।
२३१ कुर्वन् जनदृगानन्दममन्दं विश्ववल्लभः । असो तत्राश्रमे तस्थौ प्रावटकालोऽप्युपस्थितः ॥ २०० ॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः । शास्त्राणि शस्त्राण्य स्त्राणि सर्वाण्यध्याप्यते स्म च ॥ १ ॥ वर्षात्यये समायाते सारसालापबन्धुरै। । बन्धाविव फलाद्यर्थं प्रचेलुस्तापसा वनम् ॥ २ ॥ सादरं कुलपतिना वार्यमाणोऽप्यगाहनम् । तैः सह ब्रह्मदत्तोऽपि कलभ: कलभैरिव ॥ ३ ॥ भ्रमवितस्ततोऽपश्यहिणमूत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्ति दूरतः ॥ ४ ॥ तापसर्वार्थमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपञ्चकस्यान्ते नाग नगमिवैक्षत ॥ ५ ॥ नि: शङ्ख बहपर्यशः कुर्वन् गर्जितमूर्जितम् । मल्लो मन इवाह्रास्त गृहस्ती मत्तहस्तिनम् ॥ ६ ॥ क्रुडोडुषितसर्वाङ्गो व्याकुञ्चितकर: करी। निष्कम्पकर्णस्तानास्यः कुमारं प्रत्यधावत ॥ ७ ॥ इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमभवत् ॥ ८॥ . प्रभखण्डमिव नश्यदन्तरिक्षात्तदंशकम् । दशनाभ्यां प्रतीयेष क्षणादेषोऽत्यमर्षण: ॥ ८ ॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गाजम् । लीलया खेलयामासाहिण्डिक इवोरगम् ॥ १० ॥