SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः। ३४८ प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किंपाकफलसंकाशं किंपाको वृक्षविशेषस्तत्फलसदृशं, किंपाकफलं ह्यापाते रम्यं परिणामे दारुणं मारणामकत्वात् । . यदाह 'वस्मड्ढा हलहलया' दोसन्ता दिन्ति हिययपरिप्रोसं । किंपागफला पुत्तय पासायन्तो वियाणिहिसि ॥ १ ॥ एवंविधं यम्मैथुनं मिथुनकर्म तल्कः मेवेतेति सम्बन्धः । यदाहयद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवत् भवन्ति पश्चादतिदुरन्ताः ॥ २ ॥ ७७ ॥ . मैथुनस्य परिणामदारुणत्वमाह- . . .......... ... कम्पः खेदः श्रमो मूर्छा भमिर्लानिबलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥ ७८॥ कम्पो वेपयुः, खेदो धर्मः, श्रमः लमः, मूर्छा मोहः, भ्रमिर्भमः, ग्लानिरङ्ग सादः, बलक्षय: शक्तिनाशः, राजयक्ष्मा क्षयरोगः. स आदिषां कासखासादीनां रोगाणां ते तथा मैथुनोस्थिता मैथुनप्रभवाः ॥ ८ ॥ (१) वर्णाद्याः कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलान् पुत्रक आस्वादमानो विज्ञास्यसि ॥ १ ॥ (२) "तुमुलम्मि कोउएं हलहलं" इति श्रीहेमचन्द्राचार्याः देशीनाममाला अष्टमवर्गे अनेकार्थप्रकरणे ७४ लोके व्याख्युः ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy