________________
योगशास्त्रे
अहिंसापरिवारत्वाच्छेषव्रतानां मैथुने
अहिंसाया एवाभावमाहयोनियन्त्रसमुत्पन्ना: सुसूक्ष्मा जन्तुराशयः । पौड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ ७६ ॥ योनिः प्रसवमार्गः. सैव यन्त्राकारत्वाद्यन्त्रं, तत्र समुत्पन्नाः संमूछनेनोत्पत्राः, ते च. न चक्षु ह्या इत्याह-सुसूमाः,. जन्तुराशयो जन्तुसमूहाः, पोद्यमाना मृद्यमानाः पुंधजेनेति शेषः, रूतनालिकायां तप्तायःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति, यत्र मैथुने तन्मेथुनं त्यजेत् ॥ ७ ॥ योनौ जन्तुसद्भावं संवादेन द्रढयति
जन्तुसद्भावं वात्सायनोऽप्याह ।' वात्स्यायनः कामशास्त्रकारः । अनेन च वाल्यायनसंवादाधीममस्य प्रामाण्य मिति नोचते, न हि जैनं शासनमन्यसंवादाधीनप्रामाण्यं किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापहुत इत्युच्यते। वाल्यायनश्लोको यथा- - रतजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः ।
जन्मवत्मसु कण्डूतिं जनयन्ति तथाविधाम् ॥८॥ रक्तजा रक्तोद्भवाः, क्कमयो जन्तुविशेषाः, सूक्ष्मा अप्रत्यक्षाः,