________________
द्वितीयः प्रकाशः ।
३५१ मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयोऽधिशक्तयश्च, तथाविधां मृदुमध्याधिमावशक्त्यनुरूपां ; मृदुशक्तयो मृहीं, मध्यशक्तयो मध्यां, 'अधिकशतयोऽधिकां कण्डूतिं कण्डू जन्मवर्मसु योनिषु जनयन्ति ॥८॥
कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्येत तं प्रत्याह
स्वौसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति ।
स हुताशं वृताहुल्या विध्यापयितुमिच्छति ॥८॥ . प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम् ; अयमर्थो नायं कामज्वरस्य प्रतीकारोऽनुगुणः, अपि तु वृद्धि हेतुः नहि हुताशे हताहुतिप्रक्षेपस्तच्छान्यै भवति किन्तु तय । - बाह्या अप्याहु:- ..
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवईते ॥ १॥ 'किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपक्षसेवाधर्मशास्त्रश्रवणादयः ; तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवनमणहेतुना मैथुनसेवनेन ॥ ८१ ॥
(१) क ख ग छ -ऽधिक-। (२) च अधिशक-। (३) म ड किंच।