________________
३५२
। योगशास्त्रे 'एतदेवाह.. वरं ज्वलदयस्तम्भपरिरम्भी विधीयते ।
न पुनर्नरकहाररामाजघनसेवनम् ॥ ८२ ॥ अयमर्थः । भवतु कामज्वरोपशमहेतुमैथुनं परं नरकहेतुत्वान प्रशस्यम् ॥ २ ॥
अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह,
सतामपि हि वामभूदंदाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥८३॥ सतामपि हि महात्मनामपि, वामभूविरचितलोचनविकाग, हृदये पदं ददाना स्मृतिमात्रेणापि सबिधापिता, अभिरामं रमणीयं, गुणग्रामं गुणसमूह, निर्वासयति उद्दासयति । श्लेषच्छाया चेयम् । यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोहासयति, एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्रामं सतामेव हृदये पादं दत्त्वा वामभूनिर्वासयति ॥ ८३ ॥
हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाहुणहानिहेतुः किं पुना रमणमित्येतदेवाह
(१) र एतदेवमाह । (१) च ददानः प्रवररक्षितव्यान्।