________________
हितीयः प्रकाशः ।
३५३ वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता। इति नैसर्गिका दोषा यासां तासु रमेत कः॥४॥ वञ्चकत्वं मायाशीलता, नृशंसत्वं क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुःस्वभावता, उपस्थसंयमाभावो वा, इत्येते नैसर्गिकाः स्वाभाविका दोषा नत्वौपाधिकाः, तासु को रमेत ॥ ८४ ॥ . न चेयन्त एव दोषा किन्वपरिसंख्याता इत्याह
प्राप्तुं पारमपारस्य पारावारस्य पार्यते । • स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥८५॥
पारावारस्य समुद्रस्य, अपारस्यादृष्टपारस्य, पारं परतीरं, प्राप्तुं पार्यते शक्यते, न पुनः स्त्रीणां प्रकृतिवक्राणां स्वभावकुटिलचरित्राणां, दुश्चरित्रस्य दुष्टचेष्टितस्य, पारं पर्यन्तः ; प्राप्तुं पार्यत इति ॥ ८५॥
दुश्चरित्रमेवाहनितम्बिन्यः पतिं पुत्रं पितरं भातरं क्षणात् ।
आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥८६ ॥ नितम्बिन्य इति यौवनोन्माददर्शनार्थम् । अतएव स्त्रीति नोक्तम् । दुर्वृत्ता दुष्टशीलाः, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवाऽकार्येऽल्पे प्रयोजने नञोऽल्पार्थत्वात्, प्राणसंशये प्राणसन्देहे ; उपलक्षणं चैतत् । प्राणनाशेऽपि आरोपयन्ति आरोहयन्ति । कमित्याह । पतिं भर्तारम् । सूर्यकान्तेव प्रदेशिराजम् ।
४५