________________
३५४
- योगशास्त्रे
यदाह
'भज्जा वि इन्दियविगारदोसनडिया करे पइपावम् ।
जह सो पएसिराया सूरियकताइ तह वहिरो ॥ १ ॥ पुत्रं तनयम्। चुलनीव ब्रह्मदत्तम् । यदाह
माया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि ।
पुत्तस्म कुणइ वसणं चुलणी जह बंभदत्तस्म ॥ २ ॥ . पितरं जनकं, भ्रातरं सोदरम् । जीवयशा इव जरासन्ध, कालादींश्च भ्रातॄन् ॥ ८६॥ अतएव
भवस्य बीजं नरकहारमार्गस्य दीपिका ।
शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥८॥ . भवस्य संसारस्याङ्गुरस्येव बीजं तत्कारणत्वात्संसारस्य, नरकहारं नरकप्रवेशः, तत्र यो मार्गः पन्यास्तत्र दीपिकव दीपिका तत्प्रकाश. कत्वात्, शुचां शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात्. कले: कलहस्य तरोरिव मूलं पादो वृद्धिहेतुत्वात्, दुःखानां शारीरमानसानां लवणादीनामिव खानिराकरस्तत्समुत्थत्वात् दुःखानां,
(१) भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् ।
यथा प्रदेशिराजः सूर्यकान्तया तथा वधितः ॥ १ ॥ (२) माता निजकमतिविकल्पिते अर्थे अपूर्यमाणे।
पुत्वस्य करोति व्यसनं चुलमी यथा अमदत्तस्य ॥ २ ॥