SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | ३५५ काऽसावङ्गना । एवं तावद्यतिधर्मानुरक्तं गृहस्थं प्रति सामान्येन मैथुनदोषाः स्त्रीदोषाश्चोक्ताः ॥ ८७ ॥ सम्प्रति खदारसन्तुष्टान् गृहस्थानधिक्कत्य साधारणस्त्रीदोषाः श्लोकपञ्चकेनोच्यन्ते मनस्यन्यद्दचस्यन्यत्क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ॥८८॥ मनसि चित्तेऽन्यत् वचः क्रिययोर्विलक्षणं वचसि वचनेऽन्धत् मनः क्रिययोर्विलक्षणं, क्रियायां चेष्टितेऽन्यत् वाङ्मनसोर्विसंवादि, यासां साधारणस्त्रीणां वेश्यानां ता विसंवादिप्रेमाणः कथं सुखस्य विश्वासैक निबन्धनस्य हेतवः । यदाह - , अन्यस्मै दत्तसङ्केता याचतेऽन्यं स्तुते परम् । अन्यश्चित् परः पार्श्वे गणिकानामहो नरः ॥ १ ॥ ८८ ॥ · तथा मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥८६॥ मांसेन जलस्थल 'खचारिजीवजाङ्गलेन, मिश्रमामगन्धि, मांसादित्वाद्वेश्यानां, सुरया काष्ठपिष्टादिमय्या मदिरया, मिश्रं व्याप्तं, सुरापाणप्रसक्तत्वात् । अनेक विटैर्बहुभिविंटेरित्यर्थः, चुम्बितमास्वादितम्, प्रायो विटासक्तत्वात् ; एवंविधं वेश्यानां वदनं (१) ख खचरादि ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy