________________
३०४
योगशास्त्रे
सत्यमेव वदेत्प्राज्ञः सर्वभूतोपकारकम् ।
यद्दा तिष्ठेत् समालम्बा मौनं सर्वार्थसाधकम् ॥ २ ॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य कारणम् । मर्मावित्कर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ ३ ॥ धर्मध्वंसे क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तं निषेधितुम् ॥ ४ ॥ चार्वाकै: कौलिकेर्विप्रैः सौगतैः पाञ्चरात्रिकैः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥ ५ ॥ अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुलजलोपमाः ॥ ६ ॥ दावानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं नतु दुर्वचनाग्निना ॥ ७ ॥ चन्दनं चन्द्रिकाचन्द्रमण्यो मौक्तिकस्रजः ।
आह्लादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ ८ ॥ शिखी मुण्डो जटो नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥ ८ ॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः ।
इयोस्तुलाविष्धृतयोराद्यमेवातिरिच्यते ॥ १० ॥
पारदारिक दस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ १.१ ॥
कुर्वन्ति देवा अपि पक्षपातं
नरेश्वराः शासनमुद्दहन्ति ॥