________________
द्वितीयः प्रकाशः । ज्ञानचारित्रग्रहणं "नाणकिरियाहिं मोक्यो' इति भगवद्भाष्यकारवचनानुवादार्थ ज्ञानग्रहणेन दर्शनमप्याक्षिप्यते। दर्शनमन्तरेण ज्ञानस्याज्ञानत्वात् । मिथादृष्टिहि सत्त्वासत्त्वे वैपरीत्येन जानाति, भवहेतुश्च तज्ज्ञानं यदृच्छया चार्थनिरपेक्ष मुपलभ्यते न च ज्ञानफलमस्य । यदाह
सयसयविमेसणाश्री भवहेउं जइच्छोपलंभालो।
नाणफलाभावाओ मिच्छदिहिस्स असाणं ॥ १ ॥ स्पष्टमन्यत् ॥ ६३ ॥
. सत्यवादिनामैहिकमपि प्रभावं दर्शयतिअलीकं ये न भाषन्ते सत्यव्रतमहाधनाः ।
नापराडुमलं तेभ्यो भूतप्रेतोरगादयः ॥ ६४ ॥ भूता भूतोपलक्षिता व्यन्तरा: प्रेताः पितरो ये वसंबन्धिनो मनुष्यान् पीडयन्ति भूतप्रेतग्रहणं भुवनपत्यादीनामुपलक्षणार्थम् । उरगा सर्पाः आदि ग्रहणाट व्याघ्रादीनां परिग्रहः । अत्रान्तरे श्लोकाः
अहिंसापयस: पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विप्लवेत तत् ॥ १ ॥
(१) “ज्ञानक्रियाभ्यां मोक्षः" (२) सदसदविशेषणात् भवहेतुर्यदृच्छोपलम्भात् ।
ज्ञानफलाभावान मिथ्याहटेर ज्ञानम् ॥ १ ॥