________________
द्वितीयः प्रकाशः |
शीतीभवन्ति ज्वलनादयो य
`त्तत् सत्यवाचां फलमामनन्ति ॥ १२ ॥
३०५
इति द्वितीयं व्रतम् ॥ ६४ ॥
इदानीं तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शनेन न स्तेयानिवर्त्तत इति फलोपदर्शपूर्वं स्तेय निवृत्तिमाहदौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५॥ दौर्भाग्यमुद्देजनीयता, प्रेष्यता परकर्मकरत्वं, दास्यमङ्गपातादिना परायत्तशरौरता, अङ्गच्छेदः करचरणादिच्छेदः, दरिद्रता निर्धनत्वं, एतानीहामुत्र चादत्तादानफलानि शास्त्रतों गुरुमुखाद्दा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवर्जयेच्छ्रावकः ॥ ६५ ॥
स्थूलस्तेयपरिहारमेव प्रपञ्चयति
पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत खं परकीयं क्वचित्सुधीः ॥ ६६ ॥
पतितं गच्छतो वाहनादेभ्रंष्टं विस्मृतं कापि मुक्तमिति स्वामिना यन्त्र स्मर्य्यते, नष्टं क्वापि गतमिति स्वामिना यन्त्र ज्ञावते, स्थितं स्वामिपार्श्वे यदवस्थितं, स्थापितं न्यासोक्कृतं हितं निधीकृतं, तदेवंविधं परकीयं खं धनमदत्तं सन्नाददीत कचिद्द्रव्यक्षेत्राद्यापद्यपि सुधीः प्राज्ञः ॥ ६६ ॥
३८