SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे इदानीं स्तेयकारिणो निन्दति • अयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं खं मुषितं सर्वमप्यदः ॥ ६७॥ परकोयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह, अयं लोकः अयं प्रत्यक्षेणोपलभ्यमानो लोक इदं जन्मेत्यर्थः, परलोको जन्मान्तरं, धर्मः पुण्यं, धैर्यमापत्स्वप्यवैक्लव्यं, धृतिः स्वास्थ्यं, मतिः कृत्याक्कृत्यविवेकः ॥ ६७ ॥ ३०६ अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाहएकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८ ॥ एकस्य नतु बहूनां, एक क्षणं नतु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य, स्तेयकारिण त्वपहृते धने परस्य सपुत्रपौत्रस्य नत्वेकस्य, यावज्जीवं नत्वेकं क्षणं, दुःखं जायत इति संबन्धः ॥ ६८ ॥ उक्तमपि स्तेयफलं प्रपञ्चेनाह चौर्य पापद्रुमस्येह वधबन्धादिकं फलम् । जायते परलोके तु फलं नरकवेदना ॥ ६६॥ चौर्य्यात्पापं तदेव द्रुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥ ६८ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy