SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । अथ कदाचिप्रमादात् स्तेयकारी नृपतिभिर्न निग्रोत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याह - दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा। सशल्य इव चौर्येण नैति खास्था नरः क्वचित् ॥७॥ स्वप्नः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना क्वचिदपि स्थाने ॥ ७० ॥ ___ न केवलं स्तयकर्तुः स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपोत्याह मित्रपुत्रकलत्राणि भातरः पितरोऽपि हि। संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥७१॥ पिता जनक: पिटतुल्याः पितरः पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुः ब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तसंसर्ग च पञ्चमम् ॥ १ ॥ राजदण्डभयादा। यदाहुः चौरश्चौरापको मन्त्री भेदन: काणकक्रयो। स्थानदो भक्तदश्चैव चौरः सप्तविधः स्मृतः ॥ १ ॥ तस्करैरिति । तदेव चौयं कुर्वन्तीत्येवंशीलास्तस्करास्तैः ॥ ७१ ॥
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy