________________
योगशास्त्रे
स्तेयप्रवृत्तानां तत्रिवृत्तानां च दोषान् गुणांश्च प्रत्येक दृष्टान्तहारेणाहसंबन्ध्यपि निगृह्येत चौर्यान्मण्डि कवन्नृपः । चौरोऽपि त्यक्तचौर्यः स्यात्वर्गभाग्रौहिणेयवत् ॥७२॥ दृष्टान्तहयमपि संप्रदायगम्यं सचायम् -
अलब्धमध्यमम्भोधिरिवाम्भी बहुरत्नभूः । अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥ १ ॥ कलाकलापनिलयः साहसस्यै कमन्दिरम् । . राजपुत्रो मूलदेवस्तत्र मूलं धियामभूत् ॥ २ ॥ स धूत विद्यैकधव: कपणानाथबान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ॥ ३ ॥ चौर चौरः साधी साधुर्वके वक्र ऋजाजुः । ग्राम्ये ग्राम्यश्छेके च्छेको विटे विटो भटे भटः ॥ ४ ॥ द्यूतकार द्यूतकारो वार्तिके वार्त्तिकश्च सः । तत्कालं स्फटिकाश्मेव जग्राह पररूपताम् ॥ ५ ॥ चित्रैः कौतूहलैस्तत्र लोकं विस्माययनसौ। विद्याधर इव स्वैरं चचार चतुराग्रणीः ॥ ६ ॥ यतैकव्यसनाशक्तिदोषात्पित्राऽपमानित: । द्युसत्पुरश्रीजयिन्यामुज्जयिन्यां जगाम सः ॥ ७ ॥ गुलिकाया: प्रयोगेण स भूत्वा कुजवामनः । पौरान विस्माययंस्तत्र कलाभिः ख्यातिमासदत् ॥ ८ ॥