________________
द्वितीयः प्रकाशः ।
तत्रासौद्रूपलावण्यकलाविज्ञानकौशलैः। .. दत्तनपा रतर्देवदत्तेति गणिकोत्तमा ॥ ८ ॥ गुण: कलावतां यो यः प्रकष्टा तत्र तत्र सा । छकाया रञ्जने तस्याः प्रतिच्छेको न कोऽप्यभूत् ॥ १० ॥ मूलदेवस्ततस्तस्याः क्षोभार्थ तगृहान्तिक । प्रभाते गातुमारेभे प्रत्यक्ष इव तुम्बुरुः ॥ ११ ॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः । कस्येति विस्मयाद्दास्याऽन्वेषयामास तं बहिः ॥ १२ ॥ शशंसागत्य सा देवि गन्धर्वः कोऽपि गायति। . . मूत्यैव वामनः पूर्णेर्गुणैः पुनरवामनः ॥ १३ ॥ देवदत्ता ततः कुनां माधवौं नाम चेटिकाम् । प्रजिघाय तमाह्वातुं प्रायो वेश्याः कलाप्रियाः ॥ १४ ॥ सा गत्वा तं जगादेदं महाभाग कलानिधे। . देवदत्ता स्वामिनी मे त्वामाह्वयति गौरवात् ॥ १५ ॥ मूलदेवोऽवदगच्छ नागमिष्यामि कुझिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेत् ॥ १६ ॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः । स आस्फाल्य ऋजूचक्रे तां कुनीमजनालवत् ॥ १७ ॥ वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका। उपत्य देवदत्तायै तच्चेष्टितमचौकथत् ॥ १८ ॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुनामृतकृतां वीक्ष्य परमं प्राप विस्मयम् ॥ १८ ॥