________________
योगशास्त्रे
देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजाङ्गुलिमपि च्छित्त्वा तमेकच्छेकमानय ॥ २० ॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितैः । अचालि वेश्माभिमुखं धूर्तराजो भुजिष्यया ॥ २१ ॥ तया निर्दिश्यमानावा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥ २२ ॥ तं वामनमपि प्रेक्ष्य कान्तिलावण्यशालिनम् । सा मन्वाना सुरं छन्त्रमुपावेशयदासने ॥ २३ ॥ मिथो हृदयसंवादिसंलापसुभगा ततः । तयोः प्रवकृते गोष्ठौ तुल्यवैदग्धाशालिनोः ॥ २४ ॥ अथाऽऽगात्तत्र कोऽप्येको वीणाकार: प्रवीणधीः । वोणामवीवदत्तेन देवदत्ताऽतिकौतुकात् ॥ २५ ॥ वल्लकी वादयन्तं च व्यक्तग्रामश्रुतिस्वराम् । धूनयन्ती शिरो देवदत्ताऽपि प्रशशंस तम् ॥ २६ ॥ स्मित्वाऽवदन्मूलदेवोऽप्य हो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणगुणविवेचनम् ॥ २७ ॥ साशङ्का साऽप्युवाचैवं किमत्र क्षणमस्त्य हो । छकश्छे कप्रशंसायामुपहासं हि शङ्कते ॥ २८ ॥ सीऽप्याचचक्षे किं चूणमस्ति क्वापि भवादृशाम् । सगर्भा किन्त्वसौ तन्त्री किञ्च वंशोऽपि शल्यवान् ॥ २८ ॥ कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्ल कीम् । वंशादश्मानमावष्य तन्त्रयाः केशमदर्शयत् ॥ ३० ॥