________________
द्वितीयः प्रकाशः ।
३११
समारचय्य तां वीणां ततः खयमवादयत् । श्रोटकणेषु पीयूषच्छटामिव परिक्षिपन् ॥ ३१ ॥ देवदत्ताऽब्रवीद्रव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साक्षादसि सरस्वती ॥ ३२॥ वीणाकारश्चरणयोः प्रणिपत्ये त्यवोचत । खामिन् शिक्षे भवत्पाखें वीणावाद्यं प्रसौद मे ॥ ३३ ॥ मुलदेवो जगादैवं सम्यग् जानामि नह्यहम् । किन्तु जानामि तान् ये हि सम्यग् जानन्ति वल्ल कीम् ॥३४॥ के नाम ते क्क सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रपत्तनम् ॥ ३५ ॥ तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासन्नसेवकः ॥ ३६ ॥ अत्रान्तरे विश्वभूति ट्याचार्यः समागतः । साक्षाद्भरत इत्यस्मै कथितो देवदत्तया ॥ ३० ॥ मूलदेवोऽप्येवमूचे सत्यमेवायमोशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३८ ॥ विश्वभूतिरुपक्रान्ते विचारे भारत ततः । तं खर्व इत्यवाज्ञासीहाह्यार्थज्ञा हि तादृशाः ॥ ३८ ॥ मेने च धूर्तराजन विहन्मान्ययमस्य तत् । ताम्रस्वर्णालङ्करणस्येवान्तर्दयाम्यहम् ॥ ४० ॥ खच्छन्दं भरते तस्य गल्भमानस्य धूर्तराट् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ॥ ४१ ॥