SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे खणरक्षणार्थं हि प्रपञ्चो धीमतामयम् ॥ ७ ॥ कष्टकङ्कासिजिह्वालो वेताल इव दारुणः । . अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ॥ ८० ॥ तं समासनमालोक्य भूपति/वहस्पतिः । चत्वरोत्तम्भितग्रावस्तम्भेनान्तरितोऽभवत् ॥ ८१॥ कोपान्धनयनश्चासौ स एवैष पुमानिति । कटासिना दृषत्स्तम्भं च्छिलाऽगाडाम मण्डिकः ॥ ८२ ॥ . ययौ खं धाम राजाऽपि हृष्टश्चौरोपलम्भतः। .. प्राप्त: सौख्याय जायेत दोषकारी न कस्य वा ॥.८३ ॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः। . दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ ॥ ८४ ॥' अथ वस्त्रापणहारे कुर्वाणं तुबकारताम् । पर्वेष्टितजनोरं किञ्चिदुवाटिताननम् ॥ ८५ ॥ तस्करं मस्करलतोपितं छद्मश्नथाकतिम् । दृष्ट्वोपालक्षयत् क्ष्मापः क्षपादृष्टानुमानतः ॥ ८६ ॥ (युग्मम्) गत्वा हम्यं महीनायोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याकारणहेतवे ॥ ८७ ॥ न हतः स पुमानूनं तद्दिजृम्भितमित्यसौ।। प्राइतोऽमस्त चौरा हि महाराजिकवेदिनः ॥ ८८ ॥ सोऽगात्ततो राजकुले राज्ञाऽऽस्यत महासने । महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः ॥ ८ ॥ तं भूपतिरभाषिष्ट प्रसादमुखया गिरा।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy