________________
हितीयः प्रकाशः।
३३३ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धूर्ती हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥ ६८ ॥ जीर्णोद्यानं ततो गत्वा गुहामुद्दाव्य सोऽविशत्। निनाय तत्र भूपं च च्छगणरोपितालिवत् ॥ ७० ॥ आसीनागकुमारीव कुमारी तत्र तत्वसा । नवयौवनलावण्यपुण्यावयवशालिनी ॥ ७१ ॥ ... क्षालयास्यातिथेः पादावित्यादिष्टा खबन्धुना। सोपकूपं ततो भूपमुपावेशयदासने ॥ ७२ ॥ प्रक्षालयन्ती तत्पादकमले. कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गमुदक्षत ॥ ७३ ॥ अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साऽब्रवीदिति भूपतिम् ॥ ७४ ॥ पादप्रक्षालनव्याजात्कूपेऽस्मिनपर 'नराः । अपात्यन्त महाभाग तस्कराणां कुतः कपा ॥ ७५ ॥ क्षेसामि नेह कूपे त्वां त्वताभाववशीठाता। महतामनुभावो हि वशीकरणमद्भुतम् ॥ ७६ ॥ ततो मदुपरोधेन सुन्दरापसर द्रुतम् । हयोरप्यन्यथा नाथ कुशलं न भविष्यति ॥ ७७ ॥ विमृश्याथ महीनाथो निर्जगाम द्रुतं ततः । धीमन्तो हि धिया नन्ति द्विषः सत्यपि विक्रमे ॥ ७८ ॥ गते नृपे तु व्याहारि तया गच्छत्यसाविति।
(६) च ड जनाः ।