________________
. योगशास्त्रे : जातामर्षस्ततो राजा महौजा निर्ययौ निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥ ५८ ॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहे: पदमिवाम्भसि ॥ ५८ ॥ स सर्व नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामिव केसरी ॥ ६ ॥ निशाचर इवाकस्मानिशाचरणदारुणः। . तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥ ६१ ॥ कोऽत्रेति व्याहरनुच्चैर्मलिम्लुचपतिस्ततः। रुष्टः सुप्तमिव व्यालं पदा नृपमघयत् ॥ ६२ ॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्पटिकोऽस्मीति क्क व निणा न तादृशाः ॥ ६३ ॥ एहि कार्पटिकाद्य त्वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगजताम् ॥ ६४ ॥ तमन्वचालीत्सोऽर्थेच्छुः पत्तिवत्पृथिवीपतिः । ममद गर्दभस्यापि पादौ कार्याज्जनार्दनः ॥ ६५ ॥ . अजानानः स राजानं पाखें मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ॥ ६६ ॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥ ६७ ॥ अज्ञो राज्ञा समस्तं तद्दाहयामास तस्करः । रदरं दर्शयामास शाकिन्यै व स मूढधीः ॥ ६८ ॥