________________
हितीयः प्रकाशः ।
३३१ प्रथोचे मूलदेवोऽपि मया क्षान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥ ४८ ॥ ततः प्रसादं दत्त्वोच्चै तमेकं समर्प्य च । पुरीमुज्जयिनी गन्तुं विससर्जाचलं नृपः ॥ ४ ॥ प्रवेशोऽवन्तिनाथन तस्यावन्त्यामदीयत। मूलदेवस्य वचसा कोपस्तम्भूल एव यत् ॥ ५० ॥ अन्येार्दुःखविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिजो मूलदेवमेवं व्यजिज्ञपन् ॥ ५१ ॥ जाग्रत्यपि प्रजास्त्रातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोषिभिः ॥ ५२ ॥ . कोला इव 'चिरं चौराः पुरऽस्मिन्मन्दिराणि नः । प्रतिक्षेपं खनन्त्युच्चै रक्षा रक्षितुं क्षमाः ॥ ५३ ॥ अदृश्यमानाः केनापि कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः स्वैरं नो ग्रहेषु स्वग्रहेष्विव ॥ ५४ ॥ अचिरानिग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायैवं वणिजो विससर्ज तान् ॥ ५५ ॥ आदिक्षनगराध्यक्षं साक्षेपं मापतिस्ततः । अन्विष्य तस्करान् सर्वान् यहाण निग्रहाण च ॥ ५६ ॥ प्रथोवाच पुराध्यक्षस्वामिन्नेकोऽस्ति तस्करः । असौ न शक्यते धत्तुं दृष्टनष्टः पिशाचवत् ॥ ५७ ॥
(१) ग च विभो।