________________
योगशास्त्रे तैर्यथा शङ्कितं भाण्डं वित्तशाठ्यं तथाऽभवत् । परपुरान्तःप्रवेशकारिणो ह्यधिकारिणः ॥ ३७ ॥ तज् ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद्दणिक कियान् ॥ ३८ ॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । ' किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः ॥ ३८ ॥ अचलोऽपि जगादेवं जगदुद्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेत्ति कः ॥ ४० ॥ पर्याप्तं चाटुवचनैः सम्यक् त्वं वेसि तहद । राजेत्युक्तोऽचलोऽवोचत्तर्हि जानामि नह्यहम् ॥ ४१ ॥ देवदत्तामथाहूय भूपतिस्तमदर्शयत् । इष्टदृष्टा कतार्था स्यान्मनःसिद्धिर्हि मानिनाम् ॥ ४२ ॥ देवदत्तामसौ दृष्ट्वा होत: कष्टां दशां ययौ।' अग्रे स्त्रापभाजना हि मृत्योरप्यधिका नृणाम् ॥ ४३ ॥ साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । एवं कुर्या ममापि त्वं दैवायसनमीयुषः ॥ ४४ ॥ तदसि व्यसनं प्राप्त: प्राणसन्देहकारणम् । मुक्तोऽसि चार्य पुत्रेण नेदृक्षाः क्षुद्रघातिनः ॥ ४५ ॥ ततो विलक्ष: स वणिक् पतित्वा पादयोस्तयोः । जचे सर्वापराधान्मे तितिक्षध्वं तदा कृतान् ॥ ४६ ॥ रुष्टस्तेनापराधन जितशत्रुमहीपतिः । प्रवेशमुज्जयिन्यां मे युष्मदाचा प्रदास्यति ॥ ४७ ॥