________________
द्वितीयः प्रकाशः ।
३३५
खखसा दीयतां मह्यं दातव्या एव कन्यका ॥ ॥ दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः । अयं स एव राजेति निश्चिक्ये मण्डिको हदि ॥ ८१ ॥ यद्यतां मत्स्वसा देव देवकीयैव सा किल ।। मदीयमन्यदप्येवमवोचत स पार्थिवम् ॥ ८२ ॥ : तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणीम् ॥ ८३ ॥ महामात्यपदे चक्रे तस्करं तं नरेखरः । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ॥ ८४ ॥ तस्माद्भूषणवस्त्रादि तद्भगिन्यैव भूपतिः । नित्यमानाययदहो धूर्ती धूरष्यत ॥ ५ ॥ बहु यावत्समावष्टं द्रव्यं तावबृपण सा। प्रभाषि वित्तं त्वहन्धोः कियदद्यापि तिष्ठति ॥ ६ ॥ वित्तमेतावदेवासीदस्य दस्योः स्वमाऽपि हि । एवं न्यवेदयद्राजो गोप्यं प्रियतमे न हि ॥ ८७ ॥ विडम्बनाभिर्बह्वीभिर्मण्डिकं चण्डशासनः । निजग्राह ततो राजा पापानां कुशलं कियत् ॥ १८ ॥ चौर्यात् खर्यमपि विक्रमराजराजः, आनीय मण्डिकमखण्डनयो जघान । स्तैन्यं न तेन विदधीत सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ॥ २८८ ॥ ॥ इति मूलदेवमण्डिकयोः कथानकम् ॥