________________
द्वितीयः प्रकाशः।
२७७ हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशतियज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यन्जे वधोऽवधः ॥३३॥ यज्ञार्थ यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्ययवादः अस्य जगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः भूत्यै भूतिर्विभव: तस्मात्तत्र यो वधः स न वधो विज्ञेयः हिंसाजन्यस्य पापस्यानुत्पत्तेः । एवमुच्यते । कथं पुनर्य ने हिंसादोषो नास्ति । उच्यते। हिंसा हिंस्यमानस्य महानपकारः प्राणवियोगेन पुत्रदारधनादिवियोगेन वा सर्वानर्थोत्पत्तेर्दुष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासत्तेः । यजे तु हतानामुपकारी नापकारः नरकादिफलानुत्पत्तेः ॥ ३३ ॥
एतदेवाहऔषध्यः पशवो वृक्षास्तियंञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्युच्छ्रितिं पुनः ॥३४॥ औषध्यो दर्भादयः पशवश्छागादयः वृक्षा यूपादयः तिर्यञ्चो गवाखादयः पक्षिण: कपिञ्जलादयः यज्ञार्थं यज्ञनिमित्तं निधन विनाशं प्राप्ताः । यद्यपि केषाञ्चित्तत्र निधनं नास्ति तथापि या च यावती च पौडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छ्रितिमुत्कर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुकादि च ॥ ३४ ॥