________________
२२८
योगशास्त्र. सुरङ्गान्ते धनुतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तीविडम्बको ॥ १७ ॥ पञ्चाशद्योजनौं क्रोशमिव पञ्चमधारया। प्रखी जग्मतुरुच्छासी ततः पञ्चत्वमापतुः ॥ ६८ ॥ ततस्तौ पादचारण प्राणवाणपरायणौ। जग्मतुर्निकषा ग्रामं कच्छात्वोष्टकनामकम् ॥ ३८ ॥ प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोभुना । स्पईमाने इवान्योऽन्यं बाधेते तुत्तृषा च माम् ॥ ७० ॥ क्षणमत्र प्रतीक्षखत्युक्त्वा तं मन्दिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छया । ७१ ॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास चुलामात्रमधारयत् ॥ ७२ ॥ तथा कषायवस्त्राणि पवित्राणि स धारयन् ।। . सध्याभ्रच्छन्नबालांशमालिलोलामधारयत् ॥ ७३ ॥ कण्ठे वरधनुन्यस्तं अनसूत्रमधत्त च ।। ब्रह्मपुत्री ब्रह्मपुत्रसादृश्यमुवाह च ॥ ७४॥ मन्त्रिसूब्रह्मदत्तस्य वक्षःश्रीवत्सलाछितम् । पट्टेन पिदधे प्राट् पयोदेनेव भास्करम् ॥ ७५ ॥ एवं वैषपरावत्तं ब्रह्मसू: सूत्रधारवत् । पारिपार्खिकवन्मन्त्रिपुत्रोऽपि विदधे तथा । ७६ ॥ ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दुभास्करी। केनापि हिजवर्येण भोजनाय निमन्त्रितौ ॥ ७७ ॥