________________
हितीयः प्रकाशः । मूर्च्छहीतिध्वनितूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसूनुना पर्यणाययत् ॥ ५६ ॥ चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं समुषं प्रेषोज्जातर्ष वासवेश्मनि । ५७ ॥ सवधूकः कुमारोऽपि विसृष्टान्यपरिच्छदः । तत्रागाहरधनुना च्छाययेव स्वया सह ॥ ५८ ॥ वार्ताभिमन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः । निशाई व्यतिचक्राम कुतो निद्रा महात्मनाम् ॥ ५८ ॥ चुलन्यादिष्टपुरुषैः फल्क नमिताननैः । ज्वलेति प्रेरित इव वासगृहेऽज्वलच्छिखी ॥ ६० ॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोदसौम् । चुलनीदीर्घदुष्कृत्यदुष्कोतिप्रसरोपमः ॥ ६१ ॥ सप्तजिह्वोऽप्यभूत्कोटिजिह्वो ज्वालाकदम्बकैः । तत्सवें कवलीकर्तुं बुभुक्षित इवानलः ॥ ६२ ॥ किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्वितूः । संक्षेपादाचचक्षे ऽदथुलनीदुष्टचेष्टितम् ॥ ६३ ॥ प्राक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरङ्गा सत्रगामिनी ॥ ६४ ॥ प्रत्र पार्णिप्रहारेण प्रकाशौकत्य तत्क्षणात् । योगीव विवरहारं तद्दारं प्रविशाधुना ॥ ६५ ॥ पातोयपुटवत्सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समितोऽगाद्रत्नरन्फ्रेण सूत्रवत् ॥ ६६ ॥