________________
योगशास्त्र -
जरगव इवाहं तु यातायातेषु निःसहः । गत्वा कचिदनुष्ठानं करोमि त्वदनुज्ञया ॥ ४६॥ कमप्यनथं कुर्वीत मायाव्येष गतोऽन्यतः। प्राशतेति तं दी| धीमद्भाः को न शङ्कते ॥ ४७ ॥ मायाक्ततावहित्थोऽथ दीर्घः सचिवमूचिवान्। राज्येन त्वां विना न: किं यामिन्येव विना विधुम् ॥४८ ॥ धर्म सवादिनाऽत्रैव कुरु मागास्त्वमन्यतः । राज्यं भवादृशै ति सदृक्षैरिव काननम् ॥ ४८ ॥ ततो भागीरथीतीरे सहहिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ॥ ५० ॥ सत्रं च पान्यसार्थानामनपानादिना ततः। प्रवाहमिव गाङ्गं सो ऽनवच्छिन्नमवाहयत् ॥ ५१ ॥ दानमानोपकारात्तैः स प्रत्ययितपूरुषः । चक्रे सुरङ्गां विक्रोशां ततो जतुगृहावधि ॥ ५२ ॥ इत: प्रच्छन्नलेखेन सौहार्दद्रुमवारिणा। 'इमं व्यतिकरं पुष्पचूलमज्ञापयहनुः ॥ ५३ ॥ जाला तत्पुष्पचूलोऽपि सुधीः स्वदुहितः पदे। प्रेषयामास दासेरौं हंसीस्थाने बकोमिव ॥ ५४ ॥ पित्तले च स्वर्ममिति पौष्पचूलौति सा जनैः । लक्षिता भूषणमणिद्योतिताशाविशत्पुरोम् ॥ ५५ ॥
(१) चड इति।