________________
द्वितीयः प्रकाशः ।
सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥ ७८ ॥ कुमारस्याचतामूर्हि चिपन्तो विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरः समाम् ॥ ७८ ॥ जचे ततो वरधनुर्बटोरस्थाकलापटोः ।
कण्ठे बन्नासि किमिमां मूढे शण्डस्य गामिव ॥ ८० ॥
ततो द्विजवरेणोचे ममेयं गुणबन्धुरा ।
कन्या बन्धुमती नास्या विनामुमपरो वरः ॥ ८१ ॥ षट्खण्डपृथिवोपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तज्ज्ञैर्निवितं चायमेव सः ॥ ८२ ॥ तैरेवाख्यायि मे पट्टच्छवश्रीवत्सलाञ्छनः । भोच्यते यस्तवग्गृहे तस्मै देया स्वकन्यका ॥ ८३ ॥ जज्ञे च ब्रह्मदत्तस्योद्दाहः सह तया तदा । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः ॥ ८४ ॥ तामुषित्वा निशां बन्धुमतोमाश्वास्य चान्यतः | ययौ कुमार एकत्रावस्थानं सहिषां कुतः ॥ ८५ ॥ प्रातर्ग्रामं प्रापतुस्तौ तत्र चाशृणुतामिदम् | पन्यानोऽधिब्रह्मदत्तं सर्वे दीर्घेण रोधिताः ॥ ८६ ॥ प्रस्थितादुत्पथेनाथ पेततुस्तौ महाटवीम् । निरुद्धां खापदैर्दीर्घपुरुषैरिव दारुणैः ॥ ८७ ॥ ततः कुमारं हृषितं मुक्ता वटतरोरधः | वारिणेऽगाद्दरधनुर्मनस्तुख्येन रंहसा ॥ ८८ ॥
२२८