________________
द्वितीयः प्रकाशः ।
२८१
ना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतष्घृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं नरकादिलक्षणां यान्ति अत्र देवोपहारव्याजेनेति विशेषाभिधानं यज्ञव्याजेनेत्युपसंहारः अपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान् ।
यदाहु:--
अक् चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदिति ॥ ३८ ॥ एतदेवाह -
,
शमंशौलदयामूलं हित्वा धर्मं जगदितम् । अहो हिंसाऽपि धर्माय जगदे मन्दबुद्धिभिः ॥ ४० ॥ शमः कषायेन्द्रियजयः शीलं सुखभावता दया भूतानुकम्पा एतानि मूलं कारणं यस्य स तथा धर्मोऽभ्युदयनिःश्रेयसकारणं तं किं विशिष्टं जगदितं हित्वा उपेक्ष्य शमशोलादीनि धर्मसाधनान्युपे - क्ष्येत्यर्थः, अहो इति विस्मये हिंसा अपि धर्मसाधनबहिर्भूता धर्मसाधनत्वेन मन्दबुदिभिरुक्ता सर्वजनप्रसिद्धानि शमशोलादोनि धर्मसाधनान्युपेच्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुडिता । एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा ॥ ४० ॥
पिटनिमित्ता अवशिष्यते तां प्रति निषेधितुं परशास्त्रीयां षट्ोकी मनुवदति -
३६