________________
योगशास्त्रे
हविर्यच्चिरत्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ ४१ ॥ चिररात्रशब्दों दोर्घकालवचनः यच्चानन्त्याय केनचिडविषा दीर्घकालतृप्तिर्जायते केनचिदनन्तैव तदुभयं प्रवक्ष्यामि ॥ ४१ ॥
२.८२
तिलैर्त्रीहियवैर्माषैरह्निर्मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥४२॥ तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शमार्थम् । एतैर्विधिवद्दत्तेः पितरो मासं प्रीयन्ते ॥ ४२ ॥ aौ मासौ मत्स्यमांसेन चौन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४३॥
मत्स्याः पाठीनकाद्याः, हरिण मृगाः, औरभ्रा मेषाः, शकुनय आरण्यकुक्कुटाद्याः ॥ ४२ ॥
षण्मासांश्वागमांसेन पार्षतेनेह सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४४ ॥
छागश्वगलः, पृषतैणरुरवो मृगजातिविशेषवचनाः ॥ ४४ ॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोर्मंसेन मासानेकादशैव तु ॥ ४५ ॥
वराह आरण्यशूकरः ॥ ४५ ॥