________________
काशः।
२४८
हितीयः प्रकाशः। २४९ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेखरः। तत्रातिवाहयामास तां निशां ब्रह्मनन्दनः ॥ २ ॥ यावन्मे राज्यलाभः स्वात्पुष्थवत्याः समीपतः । तावद्युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ८३ ॥ तथैत्यादृतवत्यौ ते सलोकस्तञ्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्व तिरोदधे ॥ ८४ ॥ अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र पप्रच्छ नरमेकं शुभाततिम् ॥ १५ ॥ दिव्याम्बरधरा नारी रत्नाभरणभूषिता। कापि दृष्टा महाभाग त्वयातीतदिनेऽद्य वा ॥ ८६ ॥ स जचे नाथ नाथेति रुदती योमयेक्षिता। प्रत्यभिज्ञाय नप्त्रीति तत्पिटव्याय चार्पिता ॥८७ ॥ तहरोऽसौति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पिटव्यनिकेतनम् ॥ १८ ॥ रखवस्या पिटव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्या महत्या धनिनां सर्वमीषल्करं यत: ॥ ८ ॥ सया विषयसौख्यानि समं सोऽनुभवत्तथा । मृतकार्य वरधनोरपरेयुः प्रचक्रमे ॥ ४०० ॥ साक्षादिव परे तेषु भुञ्जानेषु दिजन्मसु । विप्रवेषो वरधनुस्तनागत्याब्रवीदिति ॥ १ ॥ मम चेोजनं दस्थ साक्षाहरधनोर्हि तत् । इति श्रुतिसुधैवास्य श्रुता वाग् ब्रह्मसूनुना ॥ २ ॥